CBSE Sample Papers for Class 10 Sanskrit Paper 5 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 5.
CBSE Sample Papers for Class 10 Sanskrit Paper 5
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 5 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 5 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
विद्याध्ययनं परिसमाप्य गुरुदक्षिणां दातुं उत्सुकः असौ कौत्सः एकदा गुरुम् उपगम्य निजेच्छां प्रकटितवान्। तस्य वचः श्रुत्वा गुरुणा कथितम्-”तव विशुद्धया श्रद्धया, उत्कृष्टया भावनया, परमया सेवया च नितान्तमस्मि प्रीतः । तस्मात् नाहं कामये अन्यां काञ्चित् दक्षिणाम्।” आचार्यवाक्यं श्रुत्वा कौत्सः, पुनः अवदत्-”यदि न ग्रहीष्यन्ति भवन्तः मम सकाशात् किमपि, तदा ममाध्ययनं व्यर्थम् एवेति में विश्वासः।” एवं रीत्या यदा कौत्सः वारं वारम् आग्रहं कृतवान् तदा कुपितेन गुरुणा कथितम्-‘त्वम् मम सकाशात् चतुर्दश विद्याः अधीतवान् असि, अत: चतुर्दशकोटि स्वर्णमुद्राः मह्यं देहि” इति।
गुरोः वचनं श्रुत्वा कौत्सस्य मनसि चिन्ता जाता, इयत्य: मुद्राः कुतः आनेयाः? इति न च दृश्यते कश्चन अन्यो जनः एतावत् धनं दातुं समर्थः। तस्मात् दातृणां मध्ये श्रेष्ठस्य रघोः सकाशम् एव चलितव्यम् इति विचार्य कौत्सः रघो: समीपम् उपागच्छत्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) किं समाप्य कौत्सः गुरुम् उपागच्छत् ?
(क) व्यापारम्
(ख) विद्याध्ययनम्
(ग) कार्यम्
(घ) गृहकार्यम्
(ii) कौत्सः किं दातुम् उत्सुकः आसीत् ?
(क) गुरुदक्षिणाम्
(ख) ज्ञानम्
(ग) धनम्
(घ) विद्याम्
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) तस्य वचः श्रुत्वा गुरुणा किं कथितम् ?
(ii) गुरोः वचनं श्रुत्वा कौत्सस्य मनसि का चिन्ता जाता?
(III) यथानिर्देशम् उत्तरत – (1/2 × 4 = 2)
(i) ‘कथितम्’ इत्यस्य किं कर्तृपदम् अस्ति ?
(क) कौत्सः
(ख) तस्थ
(ग) वचः
(घ) गुरुणा
(ii) ‘तव विशुद्धया श्रद्धया, उत्कृष्टया ………… अत्र ‘तव’ पदं कस्मै प्रयुक्तम् ?
(क) कौत्साय
(ख) गुरुवे
(ग) राघवे
(घ) मित्राय
(iii) कौत्सस्य मनसि चिन्ता जाता अत्र ‘चिन्ता’ इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम् ?
(क) कौत्सस्य
(ख) मनसि
(ग) जाता
(घ) रीत्या
(iv) ‘ग्रहीतुम्’ इति पदस्य कः विलोमः गद्यांशे प्रयुक्तम् ?
(क) उत्सुकः
(ख) दातुम्
(ग) निजेच्छां
(घ) विचार्य
(IV) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत। (2)
खण्ड ‘ख’- रचनात्मक कार्यम्
प्रश्न 2:
भवान् देवव्रत शर्मा स्वगृहस्य समीपं जलसंरक्षणं कर्तुम् इच्छति। एतदर्थं भवान् नगरनिगमस्य आयुक्तं तस्य सहायतायै पत्रं लिखति। मञ्जूषायाः समुचितपदानि नीत्वा स्वपत्रं पूरयतु भवान्। (1/2 × 10 = 5)
(1) ………..
पञ्जाब प्रान्तम्
दिनाङ्कः …../ ……../ …….
सेवायाम्,
श्रीमान् आयुक्तमहोदय !
(2) ……….
मोहाली नगरम्
विषय : जलसंरक्षणार्थं शासनस्य सहायता याचनम्
महोदय,
अहं (3) ………. सप्तमे खण्डे (सैक्टर) निवसामि। इदानीम् अस्य क्षेत्रस्य जनाः (4) ……….. अनुभवं कुर्वन्ति । भविष्ये अस्याः समस्यायाः (5) …………. कर्तुम् अहं स्वगृहे जलस्य (6)………….. कर्तुम् इच्छामि अतः शासनस्य (7) ……….. इच्छामि।
भवान् नगरनिगमात् साधनरूपे तकनीकरूपे च यां सहायतां कर्तुं (8) ……….. अस्ति, कृपया शीघ्रमेव लिखतु । अहं भवताम् (9) …………. भविष्यामि। भवतां पत्रोत्तरं प्रतीक्ष्यमाणः।
भवदीयः
(10) ………..
मजूषा- आभारी, संरक्षणम्, मोहालीनगरम्, समर्थः, देवव्रत शर्मा, अत्र, सहायताम्, नगरनिगमः, समाधानम्, जलाभावस्य
प्रश्न 3:
मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 × 5 = 10)
मञ्जूषा- पुस्तकालयः, छात्रः, पुस्तकानि, मञ्जूषायां, विशालः, आसन्दिकासु, काष्ठफलकोपरि, ध्यानेन, घटिका, पठन्ति, वार्तालापं, पश्यति, बहूनि, तूष्णीम्, एकः बालकः, भूतले, शान्तवातावरणं, ज्ञानवर्धनाय, सदुपयोगः।
अथवा
‘मम दिनचर्या’ इति विषयम् अधिकृत्य मञ्जूषायाः प्रदत्तशब्दानां सहायतया संस्कृतभाषायां पञ्च वाक्यानि लिखत।
मञ्जूषा- प्रात:काले, उत्थाय, सूर्योदयात् पूर्व, नित्यकर्म, भ्रमणाय, ईश्वर-स्मरणम्, स्नानं कृत्वा, उद्यानम्, आगत्य, विद्यालयस्य हेतोः, सज्जः, समयसारणिम्, दृष्ट्वा, प्रातराशम्, दुग्धं, स्यूते, पुस्तकानि, मध्याह्ने, भोजनं, गृहकार्याणि, क्रीडनाय, सायं, रात्रौ, दूरदर्शनं, विश्राम।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (1 × 4 = 4)
- ग्रामेऽस्मिन् अनेके परिश्रमिणः कृषकाः अवसन्।
- शीतलजले शिशुस्स्नाति।
- देवः + आगच्छति।
- एतत् कम् + कणम् तुभ्यम् अस्ति।
प्रश्न 5:
अधोलिखितवाक्येषु रिक्तस्थानानि समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
(i) ईश्वरस्य कार्यं ……………….. भवति।
(क) निर्बाधम्
(ख) निर्बाधः
(ग) निर्बाधा
(घ) निर्बाधितम्
(ii) (हरिः च हरः च) ……… गच्छतः।
(क) हरिहरः
(ख) हरिहराः
(ग) हरिहरौ
(घ) हरिहरम्
(iii) लक्ष्मणः ……….. तिष्ठति।
(क) उपरामः
(ख) उपरामम्
(ग) उपरामा
(घ) उपरामस्य
(iv) (जितानि इन्द्रियाणि येन सः) ………. एव संसारं जेतुं शक्यते।
(क) जितेन्द्रयः
(ख) जितेन्द्रियाणि
(ग) जितेन्द्रियः
(घ) जितेन्द्रियम्।
प्रश्न 6:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं लिखत। (1 × 4 = 4)
- पवनेन कम्प् + शानच् वृक्षाः शोभन्ते।
- अर्जुनस्य वीरता जगत्प्रसिद्धा अस्ति।
- सागराणां गहन + त्व ज्ञातुं न शक्यन्ते।
- बुद्धिमती पत्नी प्रच्छन्नभाग्यं कथयति।
प्रश्न 7:
मजूषायाः उचित-अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)
- चौरः …………….. सत्यं न वदति।
- सुखार्थिन …………. विद्या।
- स्वाध्यायात मा प्रमदितव्यम् ……….. वेदवचनम्।
- न्यायाधीशः अवदत् …………. चरणदासः एव चौरः अस्ति।
मञ्जूषा- कुतः, इति, कदापि, यत्
प्रश्न 8:
वाच्यपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)
(i) श्यामस्य …………. (पुत्र) तत्र न सुप्यते।
(क) पुत्रः
(ख) पुत्रेण
(ग) पुत्रम्
(घ) पुत्राय
(ii) ………….. (छात्रा) पाठा: पठ्यन्ते।
(क) छात्राभिः
(ख) छात्रभिः
(ग) छात्रैः
(घ) छात्राः
(iii) वानरैः वृक्षेषु ………… (स्था)।
(क) स्थीयन्ते
(ख) तिष्ठन्ति
(ग) स्थियते
(घ) स्थीयते
प्रश्न 9:
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत – (1/2 × 4 = 2)
- रविवासरे अनुजः (9.30) ………. उत्तिष्ठति।
- सः (12.45) ……………… मध्याहेन चलचित्रम् पश्यति।
प्रश्न 10:
रेखाङ्कितपदानि शुद्धीकृत्य उत्तरत। (1 × 4 = 4)
- सः मम मित्रः अस्ति।
- पुरा कुरुक्षेत्रे महाभारतम् भविष्यति।
- आम्रवृक्षे मधुराः फलानि सन्ति।
- भवान् कुत्र गच्छसि?
खण्डः ‘घ’ : पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
‘कृतयुगं त्रेतायुगं द्वापरयुगं कलियुगञ्चेति चत्वारि युगानि। चतुर्णी युगानां समूहः एव महायुगम्। एकसप्ततिमहायुगानाम्। एकम् मन्वन्तरम्। चतुर्दशमन्वन्तराणां समूहः कल्पः। एकः कल्पः एव ब्रह्मणः एकं दिनं मन्यते। ब्रह्मणः आयुः शतं वर्षाणि।’
अहो! श्रूयते शङ्खध्वनिः! युगादिपर्वणि कस्मिश्चिद् गृहे नूतनसंवत्सरस्य अभिनन्दनसमारोहः आयोज्यते । अद्य कलियुगं तु द्विपञ्चाशत्तमं शतकं प्रविशति । तदैव समारोहारम्भे कश्चन् विद्वान् सङ्कल्पवाचनं करोति….।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कस्य आयुः शतं वर्षाणि?
(ii) समारोहारम्भे विद्वान् किं करोति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
युगादिपर्वणि कस्मिश्चिद् गृहे किं भवति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘वर्षस्य’ इत्यस्य पदस्य किं पर्यायपदं अत्र प्रयुक्तम् ?
(क) समारोहस्य
(ख) शङ्खस्य
(ग) संवत्सरस्य
(ii) ‘आयोज्यते’ क्रियायाः कर्ता कः?
(क) अभिनन्दनसमारोहः
(ख) गृहे
(ग) युगादिपर्वणि
(iii) चत्वारि’ विशेषणस्य विशेष्यपदं अत्र किम् ?
(क) कलियुगम्
(ख) युगानि
(ग) पर्वणि
(iv) ‘अन्ते’ पदस्य विलोमपदं अत्र किम् ?
(क) आरम्भे
(ख) मन्यते
(ग) अद्य
(आ) अधोलिखितं श्लोकं पठित्वा प्रश्नाने उत्तरत।
नलिनीदलगतजलवत्तरलं किम् यौवनं धनं चायुः।
कथय पुनः के शशिनः किरणसमाः? सज्जना एव।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) शशिनः किरणसमाः के भवन्ति ?
(ii) कस्य किरणसमाः सज्जनाः भवन्ति ?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
नलिनीदलगतजलवत् किं-किं तरलं भवति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘दुर्जनाः’ पदस्य विलोमपदं किम?
(क) सज्जनाः
(ख) किरणसमाः
(ग) चायुः
(ii) ‘शशिन:’ पदे का विभक्तिः अस्ति ?
(क) प्रथमा
(ख) तृतीया
(ग) षष्ठी
(iii) ‘वयः’ पदस्य समानार्थकपदम् अत्र किम् ?
(क) यौवनं
(ख) आयुः
(ग) धनम्
(iv) किरणसमाः सज्जनाः’ अनयोः पदयोः विशेषणपदं किम् ?
(क) किरणसमाः
(ख) सज्जनाः
(ग) किरणसमा
(इ) नाट्यांशं पठित्वा प्रश्नान् उत्तरत। (6)
बकः – (प्रविश्य, स्वपक्षौ अवधूय) कथं माम् अपि अधिक्षिपसि। किं ते महत्त्वम् ? वर्षर्ती तु मानसं पलायसे। अहम् एव अत्र वर्षायाः अभिनन्दनं करोमि। कीदृशी तव मैत्री ? आपत्काले सरांसि त्यक्त्वा दूरं व्रजसि। वस्तुतः अहमेव शीतले जले बहुकालपर्यन्तम् अविचलं ध्यानमग्नः ‘स्थितप्रज्ञ’ इव तिष्ठामि। दुग्धधवला मे पक्षाः। न जाने कथं माम् अपरिगणयन्तः जनाः चित्रवर्णं अहिभुजं मयूरं ‘राष्ट्रपक्षी’ इति मन्यन्ते। अहमेव योग्यः ……
मयूरः – (प्रविश्य साट्टहासम्) सत्यं सत्यम्। अहमेव राष्ट्रपक्षी। को न जानाति तव ध्यानावस्थाम्। मौनं धृत्वा वराकान् मीनान् छलेन अधिगृह्य, क्रूरतया भक्षयसि। धिक् त्वाम् ! अवमानितं खलु सर्वं पक्षिकुलं त्वया।
बकः – रे सर्पभक्षक! नर्तनात् अन्यत् किम् अपरं जानासि?
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) बकस्य पक्षाः कीदृशाः भवन्ति ?
(ii) राजहंसः कदा सरांसि त्यक्त्वा दूरं व्रजति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
बकः शीतले जले कथं तिष्ठति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘दुग्धधवलाः’ पदस्य विशेष्यपदम् अत्र किम् ?
(क) पक्षाः
(ख) मे
(ग) चित्रवर्णं
(ii) ‘मन्यन्ते’ क्रियायाः कर्ता कः?
(क) राष्ट्र-पक्षी
(ख) अपरिगणयन्तः
(ग) जनाः
(iii) ‘वाचालं पदस्य विलोमपदम् अत्र किम्?
(क) अविचलं
(ख) मौनं
(ग) छलेन
(iv) ‘धिक् त्वाम् अत्र ‘त्वाम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) मयूराय
(ख) काकाय
(ग) बकाय
प्रश्न 12:
समुचितं पदं चित्वा अधोलिखितश्लोकद्वयस्य अन्वयं पूरयत। (1/2 × 8 = 4)
(क) क्रन्दनं वर्धते तस्य, नान्तं समधिगच्छति।
व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत्।।
अन्वयः- यः व्यसनं प्राप्य (1) ………… केवलं (2) ………. तस्य (3) ……….. वर्धते (सः) (4) ……….. न समधिगच्छति।
(ख) सर्वस्तरतु दुर्गाणि, सर्वो भद्राणि पश्यतु।
सर्व: कामानवाप्नोतु, सर्वः सर्वत्र नन्दतु।।
अन्वयः- सर्वः (1) ………. तरतु सर्वः भद्राणि (2) ……….., सर्वः (3) ……….. अवाप्नोतु। (4) ……….. सर्वत्र नन्दतु।
मञ्जूषा- अन्तम्, दुर्गाणि, पश्यतु, मोहात्, कामान्, परिदेवयेत्, सर्वः, क्रन्दनम्
प्रश्न 13:
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
- साधूनां चित्ते वाचि च सरलता भवति।
- दाहवेदनया मेषः भूमौ प्रलुठति।
- अरुणाचले अनेके उत्सवाः मान्यन्ते।
- राजहंसः नीरक्षीरविवेकी इति मन्यते।
प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
I. परुषां वाचं न अभ्युदीरयेत्।
(i) मधुराम्
(ii) पौरुषेयाम्
(iii) नरम्
(iv) कठोराम्।
II. काकस्य गात्रं यदि काञ्चनस्य।
(i) औष्ठौ
(ii) शरीरम्
(iii) मुखम्
(iv) चञ्चु
III. परमहम् अखण्डः शाश्वतः विभुः च।
(i) शिशुवत्
(ii) सरस्वत्याः
(iii) नित्यः
(iv) सारस्वतः
IV. सर्वेषां संक्षयः न भवेत्।
(i) नाशः
(ii) सन्देहः
(iii) सुरक्षा
(iv) सकलः
उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्
उत्तर 1:
I. (i) (ख) विद्याध्ययनम्
(ii) (क) गुरुदक्षिणाम्
II. (i) तस्य वचः श्रुत्वा गुरुणा कथितम्-‘तव ………… काञ्चित् दक्षिणाम् ।’
(ii) गुरोः वचनं श्रुत्वा कौत्सस्य …………. कुतः आनेयाः ?
III. (i) (घ) गुरुणा
(ii) (क) कौत्साय
(iii) (ग) जाता
(iv) (ख) दातुम्
IV. गुरुदक्षिणायाः महत्त्वम्। गुरुशिष्यापरम्परा।
खण्डः ‘ख’–रचनात्मकं कार्यम्
उत्तर 2:
- मोहालीनगरम्
- नगरनिगमः
- अत्र
- जलाभावस्य
- समाधानम्
- संरक्षणम्
- सहायताम्
- समर्थः
- आभारी
- देवव्रतशर्मा
उत्तर 3:
- अस्मिन चित्रे पुस्तकालयः अस्ति।
- पुस्तकालये अनेकानि पुस्तकानि सन्ति।
- अत्र आगत्य छात्राः पुस्तकानि पठन्ति।
- पुस्तकालये शान्तवातावरणं भवति।
- विद्यालये पुस्तकालयः ज्ञानवर्धनाय भवति।
अथवा
‘मम दिनचर्या
- अहं प्रातः काले उत्थाय नित्यकर्म करोमि।
- ततः भ्रमणाय उद्यानं गच्छामि।
- गृहम् आगत्य स्नानं कृत्वा ईश्वर-स्मरणं करोमि।
- तत्पश्चात् विद्यालयस्य हेतोः सज्जः भवामि।
- अहं प्रातराशं खादित्वा दुग्धं च पीत्वा विद्यालयं गच्छामि।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- ग्राम + अस्मिन्
- शिशुः + स्नाति
- देव आगच्छति
- कङ्कणम्
उत्तर 5:
(i) (क) निर्बाधम्
(ii) (ग) हरिहरौ
(iii) (ख) उपरामम्
(iv) (ग) जितेन्द्रियः
उत्तर 6:
- कस्पमानाः
- वीर + तल्
- गहनत्वं
- बुद्धिमत् + ङीप्
उत्तर 7:
- कदापि
- कुतः
- इति
- यत्
उत्तर 8:
(i) (ख) पुत्रेण
(ii) (क) छात्राभिः
(iii) (क) स्थीयन्ते
उत्तर 9:
- सार्धनववादने
- पादौनैकवादने
उत्तर 10:
- मित्रम्
- अभवत्
- मधुराणि
- गच्छति।
खण्डः ‘घ’-पठित-अवबोधनम्
उत्तर 11:
(अ) I. (i) ब्राह्मणः
(ii) सङ्कल्पवाचनम्।
II. युगादिपर्वणि …………… नूतनसंवत्सरस्य …………… आयोज्यते।
III. (i) (ग) संवत्सरस्य
(ii) (क) अभिनन्दन समारोहः
(iii) (ख) युगानि
(iv) (क) आरम्भे
(आ) I. (i) सज्जनाः
(ii) शशिनः
II. नलिनीदलगतजलवत् यौवनं ……….. तरलं भवति।
III. (i) (क) सज्जनाः
(ii) (ग) षष्ठी
(iii) (ख) आयुः
(iv) (क) किरणसमाः
(इ) I. (i) दुग्धधवलाः
(ii) वर्ष
II. बक: शीतले जले …………. ‘स्थितप्रज्ञ ………।
III. (i) (क) पक्षाः
(ii) (ग) जनाः
(ii) (ख) मौनम्
(iv) (ग) बकाय
उत्तर 12:
(क) (i) मोहात्
(i) परिदेवयेत्
(iii) क्रन्दनं
(iv) अन्तम्
(ख) (i) दुर्गाणि
(ii) पश्यतु
(iii) कामान्
(iv) सर्वः
उत्तर 13:
- केषाम्
- कुत्र
- के
- कः
उत्तर 14:
I. (iv) कठोराम्
II. (ii) शरीरम्
III. (iii) नित्यः
IV. (i) नाशः
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 5 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 5, drop a comment below and we will get back to you at the earliest.