CBSE Sample Papers for Class 10 Sanskrit Paper 4 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 4.
CBSE Sample Papers for Class 10 Sanskrit Paper 4
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 4 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 4 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
जनवरी मासस्य तृतीये दिवसे 1831 तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगांव-नाम्नि स्थाने सावित्री अजायत। तस्याः माता लक्ष्मीबाई पिता च खंडोजी इति अभिहितौ। नववर्षीया सा ज्योतिबाफुलेमहोदयेन सह परिणीता। सोऽपि तदानीं त्रयोदशवर्षकल्पः एव आसीत्। यतोहि सः स्त्रीशिक्षायाः प्रबलः समर्थकः आसीत् अतः सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा उत्सं प्राप्तवती। इतः परं सा साग्रहम् आङ्गलभाषायाः अपि अध्ययनं कृतवती। 1848 तमे ख्रिस्ताब्दे पुणेनगरे सावित्री ज्योतिबामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत। तदानीं सा केवलं सप्तदशवर्षीया आसीत्। 1851 तमे ख्रिस्ताब्दे अस्पृश्यत्वात्। तिरस्कृतस्य समुदायस्य बालिकानां कृते पृथक्तया तया अपरः विद्यालय: प्रारब्धः।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) ज्योतिबा कस्याः प्रबलसमर्थकः आसीत् ?
(ii) कन्यानाम् कृते प्रथम: विद्यालयः कुत्र आरब्धः?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) 1848 तमे ख्रिस्ताब्दे सावित्री किम् आरभत ?
(ii) 1851 तमे ख्रिस्ताब्दे सा किम् अकरोत् ?
(III) यथानिर्देशम् उत्तरत – (1/2 × 4 = 2)
(i) ‘अजायत’ इति क्रियापदस्य कर्तृपदं किम्?
(क) ज्योतिबा
(ख) लक्ष्मीबाई
(ग) सावित्री
(घ) खंडोजी
(ii) ‘सा’ सर्वनाम पदं कस्मै प्रयुक्तम् ?
(क) लक्ष्मीबाय्यै
(ख) सावित्र्यै
(ग) ज्योतिबायै
(घ) खंडोज्यै
(iii) उत्पन्ना अभवत्’ इति अर्थे किं पदम् अत्र प्रयुक्तम् ?
(क) अजायत
(ख) आरभत
(ग) प्राप्तवती
(घ) प्रारब्धः
(iv) ‘समर्थकः’ पदस्य विशेषणम् अत्र किम् ?
(क) स्त्रीशिक्षायाः
(ख) सः
(ग) यतोहि
(घ) प्रबलः
(IV) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
खण्ड’ख’- रचनात्मकं कार्यम्
प्रश्न 2:
लघुभ्रातरं प्रति लिखिते पत्रे मञ्जूषायां प्रदत्तैः शब्दैः रिक्तस्थानपूर्तिं कुरुत। (1/2 × 10 = 5)
(1) …………
दिनाङ्कः…../ ………./ …..
प्रिय (2) ………… सोमेश!
सस्नेहम् आशीर्वादम्
(3) ………. अहं तव पत्रं प्राप्तवान्। (4) ………….. परीक्षा-परिणामः (5) ……………… अस्ति, परं (6) ………. भवता न्यूनाः अङ्काः (7) …………… अति सखेदं मया अधीतम्। (8) …………… प्रतिदिन प्रातः काले उत्थाय गणितस्य अभ्यासं कुरु, गणिताध्यापकं च पुनः पुनः प्रश्नान् पृच्छ। अभ्यासेन एव सर्वाणि (9) ……….. सिध्यन्ति । पितृभ्याम् चरणयोः सादरं प्रणामः।
(10) ………. अग्रजः,
श्रीशः
मञ्जूषा- कार्याणि, त्वं, गणितविषये, भवदीयः, छात्रावासतः, अनुज, ह्यः, शोभनः, तव, प्राप्ताः
प्रश्न 3:
मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (2 × 5 = 10)
मजूषा- कन्दुकेन, बालकाः, मार्गे, उभयतः, बालिकाः, सिञ्चति, पर्वताः, सूर्योदयः, मालाकारः, मत्स्याः, वृक्षाः, जलेन, आकाशे, वार्तालापं, खगाः।
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहायतया पर्यावरणम्’ इति विषयमधिकृत्य संस्कृतभाषायां पञ्च वाक्यानि लिखत।
मञ्जूषा- वृक्षारोपणम्, जीवनस्य, पलास्टिक-स्यूताः, उद्योगेभ्यः, विषाक्तजलं, अवकरं, नद्याः, आधारः, धूम, प्रदूषितं मोटरयानम्, सर्वे नागरिकाः, नगरेषु, जागरुकाः।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (1 × 4 = 4)
- तस्माद् रक्षेत् सदाचारम्।
- समाः द्वादश पर्जन्यः + तद्राष्ट्रं नाभिवर्षति।
- आचार्येण कीदृशोऽनर्थः कृतः?
- कर्मणि + एव अधिकारः ते वर्तते।
प्रश्न 5:
अधोलिखितवाक्येषु रेखाङ्कितपदानां समास विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
(i) तर्हि सः विकलानि अङ्गानि यस्य सः भूत्वा चिरं क्लेशम् अनुभवेत्।
(क) विकलाङ्गः
(ख) विकलाङ्गम्।
(ग) विकलाङ्गानि
(घ) विकलाङ्गता
(ii) को भेदः बकहंसयोः?
(क) बकस्य हंसस्य च
(ख) बकः च हंसः च
(ग) बके च हंसे च
(घ) बकौ च हंसौ च
(iii) राजहंस्याः वचनं श्रुत्वा काकः सक्रोधं प्रविशति ।
(क) क्रोधेन सहितम्
(ख) क्रोधस्य सह
(ग) क्रोधस्य पश्चात्
(घ) क्रोधस्य अग्रे
(iv) अये कथं श्रीकृष्णः च अर्जुन: च युधिष्ठिरश्च?
(क) श्रीकृष्णार्जुनः
(ख) श्रीकृष्णार्जुनौ
(ग) श्रीकृष्णार्जुनम्
(घ) श्रीकृष्णार्जुनेन
प्रश्न 6:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं लिखत। (1 × 4= 4)
(i) समन्तात् वर्धमाना: प्रचण्डानलशिखाः आकाशं लिहन्ति इव।
(क) वृध् + शतृ
(ख) वृध् + तल्
(ग) वृध् + शानच्
(घ) वर्ध + मान
(ii) केवलं प्रकृतिः एव न विविधा मनोहरा च अपितु संस्कृतिः अपि अस्ति।
(क) मनोहर + टाप्
(ख) मनोहर + आ
(ग) मनोहर + ई
(घ) मनोहर + ङीप्
(iii) तदेव महात्मानः तथ्यतः समत्वम् इति आहुः।
(क) सम् + त्वम्
(ख) सम + त्वम्
(ग) सम + त्व
(घ) समन् + त्व
(iv) सरस्तीरे वि + हृ + शतृ राजहंसी राजहंसं कथयति।
(क) विहन्ति
(ख) विहरन्ती
(ग) विहरन्
(घ) विहरती
प्रश्न 7:
अधोलिखिते अनुच्छेदे रिक्तस्थानानि मञ्जूषातः उचितम् अव्ययपदं चित्वा पूरयत। (1 × 4 = 4)
(i) …………. अहम् आगरानगरम् अगच्छम्। तत्र (ii) ……………. अपि विश्व प्रसिद्धः ताजमहल स्मारकः शोभते। इदं श्रूयते (iii) ………….. शाहजहाँ तस्य निर्माणमकारयत्। अहं (iv) …………… अपि तत्र गमिष्यामि।
मञ्जूषा- ह्यः, यत्, श्वः, अधुना
प्रश्न 8:
वाच्यपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)
(i) रामः-त्वं कुत्र गच्छसि ?
श्यामः- अहं तु आपणम् …………..।
(क) गच्छामि
(ख) गम्यते
(ग) गच्छति
(घ) गच्छसि
(ii) रामः-तत्र …………. किमर्थं गम्यते।
(क) मया
(ख) तया
(ग) त्वया
(घ) तेन
(iii) श्यामः ………. फलानि क्रेतुं गच्छामि।
(क) मया
(ख) आवाम्
(ग) अस्माभिः
(घ) अहम्
प्रश्न 9:
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत – (1/2 × 4 = 2)
- अहं (9.45) …………. विद्यालये क्रीडामि।
- अहं (4.15) ………….. दुग्धं पिबामि
प्रश्न 10:
विकल्पानां सहायतया अशुद्धवाक्यानां संशोधनं कृत्वा पुनः लिखत। (1 × 4 = 4)
(i) रामः – माम् तु पठनम् एव रोचते।
(क) मम
(ख) मह्यम्
(ग) मया
(घ) मयि
(ii) श्यामः – किं त्वं कदाचित् गृहं अगच्छतम् ?
(क) अगच्छः
(ख) अगच्छत
(ग) अगच्छताम्
(घ) अगच्छम्
(iii) रामः – न अहं तु ईश्वरः भजिष्यामि।
(क) ईश्वरेण
(ख) ईश्वरस्य
(ग) ईश्वराय
(घ) ईश्वरम्
(iv) श्यामः – इयं सृष्टि: रमणीयम् अस्ति।
(क) रमणीयः
(ख) रमणीयाः
(ग) रमणीया
(घ) रमणियाम्
खण्डः ‘घ’-पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
ज्वालमालाकुलाः अश्वाः प्राणत्राणाय इतस्ततः अधावन्। तेषु केचिद् दग्धाः केचिद् अर्धदग्धाः केचन च पञ्चत्वं गताः। दग्धां हयशालां विज्ञाय सविषादः राजा शालिहोत्रज्ञान् वैद्यान् आहूय अपृच्छत्-‘हा! दग्धाः मे घोटकाः कथं रक्षणीयाः ? सपदि उपायः क्रियताम्।’ तदा राजवैद्यः प्रोवाच –
कपीनां मेदसा दोषो वह्निदाहसमुद्भवः।
अश्वानां नाशमभ्येति तमः सूर्योदये यथा।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) के इतस्तत: अधावन् ?
(ii) राजा कान् आहूय अपृच्छत् ?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
अश्वानां वह्निदोषः कथं नाशम् अभ्येति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘तेषु’ सर्वनाम केभ्यः प्रयुक्तम् ?
(क) अश्वेभ्यः
(ख) वानेरभ्यः
(ग) सूपकारेभ्यः
(ii) प्रकाशः’ पदस्य विपर्ययः अत्र किम् ?
(क) दग्धां
(ख) सपदि
(ग) तमः
(iii) ‘अपृच्छत्’ क्रियायाः कर्ता कः ?
(क) वैद्यान्
(ख) राजा
(ग) सविषादः
(iv) ‘मृत्युः’ इत्यर्थे अत्र किम् पदम् प्रयुक्तम् ?
(क) नाशम्
(ख) दग्धाः
(ग) पञ्चत्वम्
(आ) अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत। (6)
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) मूढः कीदृशीं वाचं त्यजति ?
(ii) परुषां वाचं कः वदति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
कः विमूढधीः भवति?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘त्यक्त्वा’ पदस्य समानार्थकपदम् अत्र किम् ?
(क) अभ्युदीरयेत्
(ख) परित्यज्य
(ग) परुषाम्
(ii) ‘धर्मप्रदाम्’ विशेषणस्य विशेष्यपदं किम् ?
(क) वाचम्
(ख) परुषाम्
(ग) यः
(iii) ‘मधुराम्’ पदस्य विलोमपदम् अत्र अस्ति?
(क) धर्मप्रदाम्
(ख) पक्वम्
(ग) परुषाम्
(iv) ‘भुङ्क्ते’ क्रियायाः कर्ता कः?
(क) विमूढधीः
(ख) अपक्वम्
(ग) फलम्
(इ) नाट्यांशं पठित्वा प्रश्नान् उत्तरत। (6)
श्रीकृष्णः – भो धर्मराज! समीचीनं न कृतं भवता। पुत्रशोकविह्वलः भीमसेनः एकाकी एव द्रौणिं हन्तुम् अभिधावति।
युधिष्ठिरः – भगवन् ! सः तु एकाकी एव द्रोणपुत्राय अलम्।
श्रीकृष्णः – वत्स! न जानाति भवान् द्रौणेः चपलां प्रकृतिं। पितुः द्रोणात् प्राप्तं ब्रह्मशिरो नाम अस्त्रं विद्यते तस्य पावें। यदि तत् प्रयुज्यते, सर्वा पृथ्वी दग्धा स्यात्।
युधिष्ठिरः – अप्येवम् ! आचार्येण कीदृशः अनर्थः कृतः ? किं चपलबालकेभ्यः एतादृश-भीषणानाम् अस्त्राणाम् प्रदानं उचितम् ?
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) भीमसेनः कं हन्तुम् अभिधावति ?
(ii) यदि तत् प्रयुज्यते तर्हि का दग्धा स्यात् ?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
द्रौणेः पार्वे किं विद्यते ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘चपलां’ विशेषणस्य विशेष्यपदम् अत्र किम् ?
(क) द्रोणेः
(ख) प्रकृति
(ग) भवान्।
(घ) चपलां
(ii) ‘समीचीनं न कृतं भवता’ अत्र’ भवता’ पदं कस्मै प्रयुक्तम् ?
(क) द्रौण्ये
(ख) श्रीकृष्णाय
(ग) भीमाय
(घ) युधिष्ठिराय
(iii) ‘अस्ति’ पदस्य पर्यायपदम् अत्र किम् अस्ति?
(क) विद्यते
(ख) स्यात्
(ग) जानाति
(घ) धावति
(iv) ‘दूरे’ पदस्य विलोमपदम् अत्र किम्?
(क) समीचीनं
(ख) प्रयुज्यते
(ग) पार्वे
(घ) विद्यते
प्रश्न 12:
उचितपदैः अन्वयं पूरयत – (1/2 × 8 = 4)
(क) नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः।
नास्ति रागसमं दु:खं नास्ति त्यागसमं सुखम्।
अन्वयः- विद्यासमं (1) …………. नास्ति, सत्य (2) ……….. तपः नास्ति। (3) ……….. दुखं नास्ति , त्यागसमं (4) …………. नास्ति।
(ख) अधुना रमणीया हि, सृष्टिरेषा जगत्पतेः।
जीवाः सर्वेऽत्र मोदन्तां भावयन्तः परस्परम्।।
अन्वयः- एषा जगत्पतेः (1) ………….. हि अधुना (2) ………….। सर्वे जीवाः अत्र (3) ………… भावयन्तः (4) ………..।
मञ्जूषा- समम्, सृष्टिः, रागसमम्, परस्परम्, चक्षुः, रमणीया, सुखम्, मोदन्ताम्
प्रश्न 13:
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
- विधात्रा एव अहं पक्षिराजः कृतः।
- धैर्यवान् लोके परिभवं न प्राप्नोति।
- पूर्वे महारथाः ब्रह्मास्त्रं न प्रयुक्तवन्तः।
- ‘ओरिया’ इति पर्व फरवरी मासे मान्यते।
प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
I. अरुणाचले लोहिताख्या तरंगिणी वहति।
(i) प्रपातः
(ii) सरोवरः
(iii) नदी
(iv) धरिणी
II. सर्वे दुर्गाणि तरन्तु।
(i) कष्टानि
(ii) नद्यः
(iii) भवनानि
(iv) कर्माणि
III. अश्वत्थामा सव्येन पाणिना चक्रम् गृहीतवान्।
(i) शुद्धेन
(ii) वामेन
(iii) दक्षिणेन
(iv) परामर्शेण
IV. किं च अनर्घम् ?
(i) असत्यम्।
(ii) बहुमूल्यम्
(iii) अद्वितीयम्
(iv) अनादरम्।
उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्
उत्तर 1:
I. (i) स्त्रीशिक्षायाः
(ii) पुणेनगरे
II. (i) 1848 तमे ……….. प्रथमं विद्यालयं आरभत।
(ii) 1851 तमे …………. अपरः विद्यालय: प्रारब्धः।
III. (i) (ग) सावित्री
(ii) (क) लक्ष्मीबाय्यै
(Iii) (क) अजायत
(iv) (घ) प्रबलः
IV. स्त्रीशिक्षायाः प्रयासः। सावित्री ज्योतिबामहोदया
खण्ड: ‘ख’-रचनात्मक कार्यम्
उत्तर 2:
- छात्रावासतः
- अनुज
- ह्यः
- तव
- शोभनः
- गणितविषये
- प्राप्ताः
- त्वम्
- कार्याणि
- भवदीयः
उत्तर 3:
- इदं सूर्योदयकालस्य दृश्यम् अस्ति।
- अत्र नद्यां मत्स्याः तरन्ति।
- उद्याने बालकाः बालिकाः च कन्दुकेन क्रीडन्ति।
- मालाकारः जलेन पुष्पाणि सिञ्चति।
- जनाः भ्रमणं कुर्वन्ति आनन्दं च अनुभवन्ति।
अथवा
‘पर्यावरणम्’
- पर्यावरणम् अस्माकं कृते आवश्यकम् अस्ति।
- शुद्धं पर्यावरणं जीवनस्य कृते औषधिः अस्ति।
- प्रदूषितपर्यावरणेन अनेके रोगाः उत्पन्नाः भवन्ति।
- सर्वे नागरिकाः जागरुकाः भवेयुः।
- वृक्षाः पर्यावरणशोधने महत्त्वपूर्णाः भवन्ति।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- सत् + आचारम्
- पर्जन्यरतद्राष्ट्र
- कीदृशः + अनर्थः
- कर्मण्येव
उत्तर 5:
(i) (क) विकलाङ्गः
(ii) (ख) बकः च हंसः च
(iii) (क) क्रोधेन सहितम्
(iv) (ख) श्रीकृष्णार्जनौ
उत्तर 6:
(i) (ग) वृध् + शानच्
(ii) (क) मनोहर + टाप्
(iii) (ग) सम् + त्व
(iv) (ख) विहरन्ति
उत्तर 7:
- ह्यः
- अधुना
- यत्
- श्वः
उत्तर 8:
- गच्छामि
- त्वया
- अहम्
उत्तर 9:
- पादोनदशवादने
- संपादचर्तुवादने
उत्तर 10:
(i) (ख) मह्यम्
(ii) (क) अगच्छः
(ii) (घ) ईश्वरम्
(iv) (ग) रमणीया
खण्डः ‘घ’-पठित-अवबोधनम्
उत्तर 11:
(अ) I. (i) अश्वाः
(ii) शालिहोत्रज्ञान् वैद्यान्।
II. अश्वानां वह्निदोषः कपीनां ………. अभ्येति।
III. (i) (क) अश्वेभ्यः
(ii) (ग) तमः
(iii) (ख) राजा
(iv) (ग) पञ्चत्वम्
(आ) I. (i) धर्मप्रदां
(ii) विमूढधीः
II. यः (नरः) धर्मप्रदां ………. अभ्युदीरयेत्।
III. (i) (ख) परित्यज्य
(ii) (क) वाचम्
(iii) (ग) परुषाम्
(iv) (क) विमूढधीः
(इ) I. (i) द्रौणिम्
(ii) पृथ्वी
II. द्रौणे: पार्वे पितु ………. विद्यते।
III. (i) (ख) प्रकृतिम्
(ii) (घ) युधिष्ठिराय
(ii) (क) विद्यते
(iv) (ग) पार्वे
उत्तर 12:
(क) (i) चक्षुः
(ii) समम्
(iii) रागसमें
(iv) सुखम्।
(ख) (i) सृष्टिः
(ii) रमणीया
(iii) परस्पर
(iv) मोदन्ताम्
उत्तर 13:
- केन
- कः
- के
- कदा
उत्तर 14:
I. (iii) नदी
II. (i) कष्टानि
III. (ii) वामेन
IV. (i) असत्यम्
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 4 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 4, drop a comment below and we will get back to you at the earliest.