CBSE Sample Papers for Class 10 Sanskrit Paper 3 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 3.
CBSE Sample Papers for Class 10 Sanskrit Paper 3
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 3 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 3 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नाने उत्तराणि संस्कृते लिखत – (10)
युधिष्ठिरः प्रतिदिनं नवभ्यः ब्राह्मणेभ्यः सुवर्णनिर्मितेषु कदलीपत्रेषु भोजनं परिवेषयति स्म। अतिथिसत्कारनिपुणः कृष्णः तेषां पत्राणां मार्जनं स्वयमेव करोति स्म। एकदा तेषु कदलीपत्रेषु अन्यतमं पत्रं नष्टम् अभवत्। युधिष्ठिरः चिन्तामग्नः अभवत्। तदा तादृशम् एव अन्यत् पत्रं सुवर्णकारेण कारयित्वा पूर्णव्यवस्था अनुवर्तिता। कालान्तरे कृष्णः युधिष्ठिरश्च अटनसमये एकं प्रकाशमानं राशिं दृष्टवन्तौ। सः सुवर्णनिर्मितानां कदलीपत्राणां राशिः आसीत्। युधिष्ठिरः अपृच्छत्-कथम् अत्र एतावन्ति सुवर्णमयानि कदलीपत्राणि? श्रीकृष्णः हसन् अवदत्-बलिचक्रवर्ती प्रतिदिनं सुवर्णमये कदलीपत्रे एव भोजनं करोति। किन्तु सः सकृत् उपयुक्तस्य पत्रस्य पुनः उपयोग न करोति । प्रतिदिनं नूतनपत्रे एव भोजनं करोति । सकृत् उपयुक्तं पत्रम् अत्र क्षिप्यते। तेषां राशिः एव अत्र पर्वताकारेण दृश्यते । एतत् श्रुत्वा युधिष्ठिरस्य गर्व: ज्वरः इव व्यपगतः।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कृष्णः युधिष्ठिरः च अटनसमये किम् दृष्टवन्तौ ?
(ii) कः चिन्तामग्नः अभवत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) सः केषाम् राशिः आसीत् ?
(ii) कृष्णः हसन् किम् अवदत् ?
(III) प्रदत्तविकल्पेभ्यः शुद्धम् उत्तरं चित्वा निर्देशानुसारम् लिखत। (1/2 × 4 = 2)
(i) अत्र ‘कदलीपत्रेषु’ इति पदस्य विशेषणपदं किम् ?
(क) सुवर्णनिर्मितानाम्
(ख) सुवर्णनिर्मितेषु
(ग) पत्राणाम्
(घ) सुवर्णमयानि
(ii) ‘अपृच्छत्’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) कृष्णः
(ख) बलिः
(ग) युधिष्ठिरः
(घ) भोजनम्
(iii) अत्र ‘अहंकारः’ इत्यर्थे किम् पदं प्रयुक्तम् ?
(क) ज्वरः
(ख) राशिः
(ग) व्यपगतः
(घ) गर्वः
(iv) एतावन्ति’ इति सर्वनामपदं कस्य कृते प्रयुक्तम् ?
(क) कदलीपत्राणाम् कृते
(ख) सुवर्णमयानाम् कृते
(घ) राशीनाम् कृते
(ग) पत्राणाम् कृते
(IV) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
खण्डः ‘ख’- रचनात्मक कार्यम्
प्रश्न 2:
स्वमित्रम् नवमकक्षायाम् संस्कृतम् पठितुम् प्रेरयितुम् लिखिते अस्मिन् पत्रे रिक्तस्थानानि पूरयित्वा पुनः लिखत। (1/2 × 10 = 5)
छात्रावासः,
(1) ………
दिनाङ्कः ……../ ……../ …….
प्रिय मयंक,
(2) …………
अत्र कुशलं तत्रास्तु। तव (3) ……….. ज्ञातं यत् त्वम् नवमकक्षायां संस्कृतम् पठितुम् इच्छसि। एतत् ज्ञात्वा अहम् अति प्रसन्नः (4) ………… यत: संस्कृतम् पठित्वा वयं स्वदेशस्य गौरवम् अनुभवितुम् (5) ……….। इयं देवभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वैज्ञानिकी च अस्ति । विश्वस्य (6) ………. भाषासु भारतीयभाषासु च (7) …….. शब्दाः प्राप्यन्ते । किं त्वम् जानासि यत् वेदाः, रामायणं, महाभारतम्, उपनिषदः, पञ्चतन्त्रहितोपदेशादयः (8) ……. संस्कृते एव लिखिताः सन्ति। अतः त्वम् सर्वैः (9) ………… सह संस्कृतमपि परिश्रमेण पठ। अवकाशेषु मम गृहम् आगच्छ। मातापितृभ्याम् मम प्रणामान् कथय।
तव (10) ………
गौरवः
मञ्जूषा- अभवम्, नमोनमः, मित्रम्, शक्नुमः, विषयैः, देहरादूनतः संस्कृतस्य, अनेकासु, पत्रात्, ग्रन्थाः
प्रश्न 3:
चित्रं दृष्टवा मजूषायां प्रदत्तशब्दानां सहायतया संस्कृतभाषायां पञ्चवाक्यानि लिखत। (2 × 5 = 10)
मञ्जूषा- वृक्षारोपणम्, उद्याने, बालकाः, बालिकाः, शुद्धम्, वातावरणम्, सर्वेषां, कर्तव्यम्, अधिकाधिकाः वृक्षाः प्रसन्नाः, प्रदूषणं, कुर्वन्ति, रोपणीयाः, स्वास्थ्यस्य।
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहायतया ‘परोपकारः’ इति विषयम् अधिकृत्य संस्कृतभाषायां पञ्च वाक्यानि लिखत।
मञ्जूषा- परेषाम्, उपकारः, सहायता, प्रकृतेः, सर्वाणि वस्तुनि, कथ्यते, सज्जनानां सम्पत्तिः, नद्याः जलं, भवन्ति, वृक्षस्य, फलानि, परोपकाराय, आत्मसन्तोषः, दु:खस्य निवारण, समाजे, सुखस्य वृद्धिः।
खण्डः’ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (1 × 4 = 4)
- प्रत्येकम् अयनस्य अवधिः षण्मासाः।
- सः हेतुः सर्वविद्यानाम्।
- अपि इदं श्रेयः + करम् ?
- तत् + श्रुत्वा यूथपतिः उक्तवान्।
प्रश्न 5:
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
(i) पिककाकौ उड्डीयेते।
(क) पिकाः च काकाः च
(ख) पिकः च काकः च
(ग) पिकः च काकः तयोः समाहारः
(घ) काकाः पिकः च
(ii) प्रतिहतम् अन्त: करणम् यस्य सः प्रच्छन्नभाग्यः अचिन्तयत्।
(क) प्रतिहतकरणम्
(ख) प्रतिहतमन्तः करणम्
(ग) प्रतिहतान्तः करणः
(घ) अन्तः करणप्रतिहतम्
(iii) एकः वानरः यथाशक्ति वृक्षे स्थितान् पक्षिणः तुदति स्म।
(क) शक्तिसहितम्
(ख) शक्तिम् अनतिक्रम्य
(ग) शक्ते: योग्यम्
(घ) शक्तेः अभावः
(iv) पीतदुग्धा बालिका विद्यालयं गच्छति।
(क) पीतं दुग्धं यया सा
(ख) पीतं दुग्धं येन सः
(ग) दुग्धं पीतं यस्मिन् सः
(घ) पीतं दुग्धं यस्मै सः
प्रश्न 6:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं लिखत। (1 × 4 = 4)
- गुरु सेव् + शानच् शिष्यः प्रसन्नः भवति।
- परिश्रमस्य महत्त्वम् सर्वे जानन्ति।
- एषा मम पुत्र + ङीप् क्रीडति।
- कविना प्रकृतेः सुन्दरतायाः वर्णनं कृतम्।
प्रश्न 7:
मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। (1 × 4 = 4)
- मित्र! ……….. त्वं किं करोषि ?
- किं त्वं जानासि ……………. गीतायां कर्मयोगस्य शिक्षा वर्तते।
- याचकस्य याच्छा वृथा ……….. भवेत।
- प्रधानमंत्री नगरे ……….. आगमिष्यति ?
मञ्जूषा- मा, कदा, यत्, इदानीम्
प्रश्न 8:
वाच्यपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत – (1 × 3 = 3)
रोहित:- किं (i) मणिकायाः (ii) …….. अपि पश्यसि ?
(i) (क) त्वया
(ख) मया
(ग) त्वम्
(घ) अहम्
(ii) (क) पदानुशीलनी
(ख) पदानुशीलनीः
(ग) पदानुशीलन्यः
(घ) पदानुशीलनीम्
श्वेता- आम्! मया (iii) …………… अपि दृश्यते।
(क) पदानुशीलनी
(ख) पदानुशीलनीम्
(ग) पदानुशीलनम्
(घ) पदानुशीलनीः
प्रश्न 9:
अधोलिखितेषु वाक्येषु अङ्कानां स्थाने संस्कृतपदैः समयं लिखत – (1/2 × 4 = 2)
- विद्यालये (10.00) ……….. क्रीडाप्रतियोगिता भविष्यति।
- तत्र (11.30) ………… मुख्यातिथि: आगमिष्यति।
प्रश्न 10:
अधोलिखितेषु रेखाङ्कितपदम् अशुद्धम् अस्ति। प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा अशुद्धपदं संशोध्य लिखत। (1 × 4 = 4)
(i) एते मम मित्राः सन्ति।
(क) मित्रे
(ख) मित्राणि
(ग) मित्रः
(घ) मित्रम्
(ii) ते श्वः वाराणसीम् अगच्छन्।
(क) अगच्छथ
(ख) गमिष्यथ:
(ग) अगच्छताम्
(घ) गमिष्यन्ति
(iii) मम समीपे पञ्च फलानि स्थ।
(क) अस्ति
(ख) असि
(ग) सन्ति
(घ) स्मः
(iv) ता: बालिका रामायणं पठति।
(क) ते
(ख) सः
(ग) सा
(घ) तानि
खण्डः ‘घ’-पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
तस्मिन्नेव काले सुप्तोत्थितः प्रच्छन्नभाग्यः सम्भ्रान्तचित्त: स्वपत्नीं सम्बोध्य उवाच- अहो ! विचित्र: स्वप्नो मया दृष्टः। अस्माकं क्षेत्रे अश्वत्थतरुमूले सुवर्णपूरितः कलश: विद्यते इति। तच्छ्रुत्वा परद्रव्ये अनासक्ता सा न्यवेदयत्-नाथ! विरम अस्माद् लोभात्।
दुष्टबुद्धिः तु तयोः वार्ताम् श्रुत्वा झटिति एव क्षेत्रं गतः। तत्र अश्वत्थमूलं खनित्वा तं सुवर्णकलशं प्राप्तवान्। यदा स तस्य आवरणम् अपसारयति तदैव भयङ्करम् एकं विषधरं फूत्कारं कुर्वन्तं पश्यति। भीतः स कलशं पुन: आवृत्य तम् च आदाय मित्रस्य गृहं समागतः। स्वमित्रं सर्पेण मारयितुम् इच्छन् सः भित्तौ सन्धिं प्रकल्प्य तन्मध्यत: कलशं गृहाभ्यन्तरे क्षिप्तवान्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) दुष्टबुद्धिः तयोः वार्ताम् श्रुत्वा कुत्र गतः ?
(ii) सुवर्णपूरितः कलशः कस्य वृक्षस्य मूले आसीत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
दुष्टबुद्धिः सुवर्णकलशं गृहाभ्यन्तरे किमर्थं क्षिप्तवान् ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘नाथ! विरम अस्मात् लोभात्’ इति कथनं का कथयति ?
(क) भार्या
(ख) आचार्या
(ग) माता
(घ) भगिनी
(ii) ‘भीत: स: कलशं पुनः आवृत्य मित्रस्य गृहम् आगतः’ अस्मिन् वाक्ये ‘सः’ इति पदं कस्मै प्रयुक्तम् ?
(क) दुष्टबुद्धये
(ख) प्रच्छन्नभाग्याय
(ग) भार्यायै
(घ) ग्रामीणाय
(iii) ‘स्वामि’ इति पदस्य कः पर्यायः अनुच्छेदे आगतः?
(क) सम्भ्रान्तः
(ख) नाथ
(ग) मित्रम्
(घ) दुष्टबुद्धिः
(iv) ‘आसक्ता’ इति पदस्य कः विपर्ययः अनुच्छेदे अस्ति?
(क) लुब्धा
(ख) अनासक्ता
(ग) आकृष्टा
(घ) त्यक्ता
(आ) अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत। (6)
कोऽनर्थफलः? मानः, का सुखदा? साधुजनमैत्री।
सर्वव्यसनविनाशे को दक्षः ? सर्वथा त्यागी।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) का सुखदा भवति ?
(ii) कः अनर्थफलः भवति?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
कीदृशः जनः सर्वविपत्तीनां नाशे समर्थः भवति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘दुःखदा’ पदस्य विपरीतार्थकं पदं किम् ?
(क) सर्वथा
(ख) सुखदा
(ग) दक्षः
(ii) ‘अनिष्टकारकः’ इति स्थाने कः शब्दः अत्र प्रयुक्तः ?
(क) अनर्थफलः
(ख) त्यागी
(ग) मानः
(iii) ‘अस्मिन् श्लोके’ किम् अव्ययपदं प्रयुक्तम् ?
(क) कः
(ख) त्यागी
(ग) सर्वथा
(iv) ‘त्यागी’ पदे किं लिङ्गम् ?
(क) स्त्रीलिङ्गम्
(ख) पुल्लिङ्गम्
(ग) नपुंसकलिङ्गम्
(इ) नाट्यांशं पठित्वा प्रश्नान् उत्तरत। (6)
हिमांशुः – अहं चिन्तयामि यत् ‘अरुणः’ तु सूर्यस्य पर्यायः। अस्य प्रकाशः सर्वप्रथमम् इमं प्रदेशं स्पृशति। अतः अरुणस्य प्रदेश: अरुणाचलः।
पर्यटनाधिकारी – शोभनम् ! उचितम् उक्तम्। हिमाद्रितुङ्गशृङ्गः सुशोभिता सूर्योदयभूमिः इयम्। अतः अरुणाचलः। अस्मिन् प्रदेशे पञ्चाशदधिकाः नद्यः प्रवहन्ति। विपुला च अत्र वनसम्पदा। वनौषधीनां तु अयं स्रोतः एव। पुष्पाणां समृद्धिः सुगन्धिः च मनोहरः। सर्वत्र हरीतिमा। शुद्धपर्यावरणेन युक्तस्य अस्य प्रदेशस्य केवलं प्रकृतिः एव न विविधा मनोहरा च प्रत्युत संस्कृतिः अपि।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) अस्मिन् प्रदेशे कति नद्यः वहन्ति?
(ii) अरुणाचल प्रदेशस्य भूमिः कैः सुशोभिता?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
अयं प्रदेश: किमर्थम् अरुणाचलः कथ्यते ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘विपुला च अत्र वनसम्पदा’ अत्र ‘वनसम्पदा’ इति पदस्य विशेषणपदं किम् अस्ति?
(क) विपुला
(ख) च
(ग) अत्र
(घ) अस्ति
(ii) ‘अस्य प्रदेशस्य केवलं प्रकृतिः’ अत्र ‘अस्य’ पदं कस्मै आगतम् ?
(क) अरुणाचलाय
(ख) प्रदेशाय
(ग) भारताय
(घ) विदेशाय
(iii) ‘सुशोभिता’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) इयम्
(ख) सूर्योदयभूमिः
(ग) प्रकृतिः
(घ) अतः
(iv) ‘विपुला च अत्र वनसम्पदा’ अस्मिन् वाक्ये कः अव्ययः वर्तते ?
(क) वनसम्पदा
(ख) च अत्र
(ग) विपुला
(घ) शोभनम्
प्रश्न 12:
मञ्जूषायाः सहायता अन्वये उचितपदैः रिक्तस्थानपूर्तिः क्रियताम्। (1/2 × 8 = 4)
(क) यः सप्तराज्येषु विभासमानः, तरङ्गिणी यत्र च लोहिताख्या।
‘ईटा’ हि यस्यास्ति पुरी प्रधाना, सुस्वागतं भो! अरुणाचलेऽस्मिन्।।
अन्वयः- य: सप्तराज्येषु (1)…………… यत्र (2) …………. तरङ्गिणी यस्य च (3) ……. पुरी ईटा अस्ति। भो! अस्मिन् (4) ……………. सुस्वागतम् अस्ति।
(ख) नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन।।
अन्वयः- पूर्वे ये अपि नानाशस्त्रविदः (1) ………… अतीता: तैः (2) ……….. एतत् (3) ………….. कथञ्चन न (4) ………..।
मञ्जूषा- लोहिताख्या, मनुष्येषु, प्रधाना, प्रयुक्तम्, विभासमानः, अरुणाचले, महारथाः, अस्त्रम्।
प्रश्न 13:
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
- षड् ऋतवः एव संवत्सरस्य नाभयः।
- रमणीया हि सृष्टिः एषा।
- प्रकृतिः एव पक्षिणां जननी अस्ति।
- अरुणाचलः सप्तराज्येषु विभासमानः वर्तते।
प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत। (1 x 4 = 4)
I. त्वया समीचीनम् न कृतम्।
(i) त्यज
(ii) उचितम्
(iii) मनसि
(iv) कथयामि
II. कुकर्मान्तं यशो नृषाम्।
(i) धनम्
(ii) कीर्तिः
(iii) राज्यम्।
(iv) उचितम्
III. ते स्वगतम् एव वदन्ति।
(i) सर्वतः
(ii) उचितम्
(iii) कथयामि
(iv) मनसि
IV. वर्षर्ती तु मानसं पलायसे।
(i) पालयसि
(ii) पालनीयम्
(iii) धावसि
(iv) धारयसि
उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्
उत्तर 1:
I. (i) प्रकाशमानं राशिं
(ii) युधिष्ठिरः
II. (i) सः सुवर्ण निर्मितानां ………… आसीत्।
(ii) कृष्णः हसन् अवदत् …………. करोति । किन्तु …….
III. (i) (ख) सुवर्णनिर्मितेषु
(ii) (ग) युधिष्ठिरः
(iii) (घ) गर्वः
(iv) (क) कदलीपत्राणाम् कृते
IV. युधिष्ठिरस्य मोह:/कदापि गर्व: न कुर्यात्।
खण्डः ‘ख’-रचनात्मक कार्यम्
उत्तर 2:
- देहरादूनतः
- नमोनमः
- पत्रात्
- अभवम्
- शक्नुमः
- अनेकासु
- संस्कृतस्य
- ग्रन्थाः
- विषयैः
- मित्रम्
उत्तर 3:
- अस्मिन् चित्रे बालकाः वृक्षारोपणं कुर्वन्ति।
- वृक्षारोपणं कृत्वा ते प्रसन्नाः भवन्ति।
- वृक्षाः वातावरणं शुद्धं कुर्वन्ति।
- वृक्षारोपणं सर्वेषां जनानां कर्तव्यम् अस्ति।
- पर्यावरणस्य प्रदृषणं दूरीकरणाय वृक्षाः रोपणीयाः।
अथवा
‘परोपकारः
- परेषाम् उपकारः परोपकारः कथ्यते।
- प्रकृते सर्वाणि वस्तूनि परोपकाराय भवन्ति।
- सज्जनानां सम्पत्तिः परोपकाय एव भवति।
- परोपकारं कृत्वा आत्मसन्तोषः भवति।
- नद्याः जलं वृक्षस्य फलानि परोपकाराय एव भवन्ति।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- प्रति + एकम्
- स हेतुः
- श्रेयस्करम्
- तच्छुत्वा
उत्तर 5:
(i) (ग) पिकः च काकः तयोः समाहारः
(ii) (ग) प्रतिहन्तान्त:करणः
(iii) (ख) शक्तिम् अनतिक्रम्य
(iv) (क) पीतं दुग्धं यया सा
उत्तर 6:
- सेवमानः
- महत् + त्व
- पुत्री
- सुन्दर + तल्
उत्तर 7:
- इदानीम्
- यत्
- मा
- कदा
उत्तर 8:
(i) (ग) त्वम्
(ii) (घ) पदानुशीलनीम्
(iii) (क) पदानुशीलनी
उत्तर 9:
- दशवादने
- साधैकादशवादने
उत्तर 10:
(i) (ख) मित्राणि
(ii) (घ) गमिष्यन्ति
(iii) (ग) सन्ति
(ग) सा
खण्डः ‘घ’-पठित-अवबोधनम्
उत्तर 11:
(अ) I. (i) क्षेत्रम्
(ii) अश्वत्थतरुमूले
II. स्वमित्रं सर्पण ………. क्षिप्तवान्।
III. (i) (क) भार्या
(ii) (क) दुष्टबुद्धये
(iii) (ख) नाथ
(iv) (ख) अनासक्ता
(आ) I. (i) साधुजनमैत्री
(ii) मानः
II. सर्वथा ……. भवति।
III. (i) (ख) सुखदा
(ii) (क) अनर्थफलः
(iii) (क) कः
(iv) (ख) पुल्लिङ्गम्
(इ) I. (i) पञ्चाशदधिकाः
(ii) हिमाद्रितुङ्गशृङ्ग
II. अरुणः तु ……….. अतः …………।
III. (i) (क) विपुला
(ii) (क) अरुणाचलाय
(iii) (क) इयम्
(iv) (ख) च अत्र
उत्तर 12:
(क) (i) विभासमानः
(ii) लोहिताख्या
(iii) प्रधाना
(iv) अरुणाचले
(ख) (i) महारथाः
(ii) अस्त्रम्
(iii) मनुष्येषु
(iv) प्रयुक्तम्
उत्तर 13:
- कति
- किदृशी
- का
- केषु
उत्तर 14:
I. (ii) उचितम्।
II. (ii) कीर्तिः
III. (iv) मनसि
IV. (ii) धावसि
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 3 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 3, drop a comment below and we will get back to you at the earliest.