CBSE Sample Papers for Class 10 Sanskrit Paper 2 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 2.
CBSE Sample Papers for Class 10 Sanskrit Paper 2
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 2 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 2 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
कस्मिंश्चिद् ग्रामे वल्लभनामकः काष्ठिकः प्रतिवसति स्म। सः काष्ठानि विक्रीय जीविकोपार्जनम् अकरोत्। एकस्मिन् दिवसे यावत् सः वनं प्रति गन्तुम् उद्यतः आसीत् तदैव तस्य भार्या तमवदत्-स्वामिन् ! श्वः आवयोः कन्यायाः जन्मदिवसः भविष्यति। ह्यः आपणे एकं काष्ठनिर्मितं शुकं दृष्ट्वा सा तदेव क्रीडनकं क्रेतुम् ऐच्छत्। अतः अद्य भवान् वनं गत्वा वृक्षान् छित्वा काष्ठानि विक्रीय धनार्जनं करोतु येन तत् क्रीडनकं क्रीत्वा तस्यै दातुं शक्ष्यते। ‘अस्तु’ इति कथयित्वा सः वनमगच्छत्। तत्र गत्वा स: एकं नवीनं वृक्षं दृष्ट्वा तं कर्तितं यावत् कुठारम् उदतोलयत् तावदेव वनदेवी तत्र आविर्भूता अभवत् अवदच्चे- मां मा छिन्धि, अहं तुभ्यम् एकं जीवितं शुकं दास्यामि यः मनुष्यवाचा वक्तुं शक्नोति। इति कथयित्वा सा आकाशं प्रति दृष्टिनिक्षेपम् अकरोत्। तत्क्षणमेव गगनात् उड्डीय एकः शुकः तत्रागत्य देव्याः हस्ते उपाविशत्। देवी च वल्लभाय तं शुकं दत्त्वा अदृश्याभवत्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) वल्लभः कानि विक्रीय जीविकामर्जयत् ?
(ii) कस्याः जन्मदिवसः भविष्यति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) वनदेवी आविर्भूता भूत्वा वल्लभं किमवदत् ?
(ii) यदा वनदेवी आकाशं प्रति दृष्टिनिक्षेपमकरोत् तदा किमभवत् ?
(III) यथानिर्देशम् उत्तरत – (1/2 × 4 = 2)
(i) ‘अहं तुभ्यम् एकं जीवितं शुकं दास्यामि?’ अत्र ‘दास्यामि’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) जीवितम्।
(ख) तुभ्यम्।
(ग) अहम्
(घ) एकम्
(ii) ‘सा तदेव क्रीडनकं क्रेतुम् ऐच्छत्।’ अत्र ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(क) कन्यायै
(ख) भार्यायै
(ग) क्रीडनकाय
(घ) आपणाय
(iii) गद्यांशे ‘नवीनं’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) शुकम्
(ख) कुठारम्
(ग) वृक्षम्
(घ) क्रीडनकम्
(iv) ‘ह्यः’ इति अव्ययपदस्य अत्र किम् विपरीतंपदं प्रयुक्तम् ?
(क) अतः
(ख) श्वः
(ग) इति
(घ) च
(IV) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
खण्डः ‘ख’- रचनात्मकं कार्यम्
प्रश्न 2:
मित्रस्य कुशलक्षेत्रं ज्ञातुं मित्रं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत। (1/2 x 10 = 5)
नवदिल्लीतः
दिनाङ्कः ……../ ……./ ……..
प्रिय सखे रमेश!
सादरं नमस्कारः।
(1) ………….. भवदीयपत्रस्य प्रतीक्षां करोमि। पूर्वं भवान् प्रायेण प्रतिमासं पत्रं (2) ………….. स्म। परं सम्प्रति षड् सप्त वा मासाः (3) …………. भवतः एकम् अपि (4) ………….. न प्राप्तम्। अत्र किं कारणम् इति चिन्तया मम मनः नितरां (5) ………….. वर्तते। अतः सम्प्रति कृपया (6) …………….. पत्रं संप्रेष्य मम (7) …………….. निवारणं कर्त्तव्यं, येन मम (8) ……………….. चिन्ता न स्यात्। (9) ……………… पत्रे न इतः अधिकं किञ्चित् लेखितुं कामये। अन्यत् सर्वं पत्रान्तरे (10) ……………..।
पितृभ्यां मे प्रणामाः।
भवतः मित्रम्
रविः
मञ्जूषा- मनसि, प्रेषयति, अस्मिन्, यथाशीघ्र, पत्रं, निवेदयिष्यामि, व्याकुलं, आशंकायाः, व्यतीताः, चिरकालात्।
प्रश्न 3:
मजूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखते। (2 × 5 = 10)
मञ्जूषा- नदी, वृक्षाः, रजकः, बालौ, क्षालयति, वस्त्राणि, तरतः, शुष्यन्ति, शिलापट्टके, पर्वतः, रमणीयः, कुटीरः।
अथवा
‘संस्कृतभाषा’ इति विषयमधिकृत्य मञ्जूषायाः सहायतया संस्कृतभाषायां पञ्च वाक्यानि लिखत।
मञ्जूषा- प्राचीना, देवभाषा, वेदाः, उपनिषदः, पुराणानि, अनेके महाकवयः, संस्कृतग्रन्था, विश्वप्रसिद्धः, जननी, भाषाणां, नाटकानि, गौरवं, वैदेशिकाः, सर्वे, वर्धयति, सन्ति, वैज्ञानिकी भाषा, व्याकरणं।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत। (1 × 4 = 4)
- शारदा सर्वदा अस्माकं सन्निधिं कुर्यात्।
- पापतरस्ततः कः स्यात्।
- पाप्मानं हि + एनम् प्रजहि।
- अये! अयं तु जगत + ईशः अस्ति।
प्रश्न 5:
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
(i) प्रच्छन्नभाग्यः सम्भ्रान्तचित्तः स्वपत्नीं सम्बोध्य उवाच।
(क) सम्भ्रान्तः चित्तेन युक्तः
(ख) सम्भ्रान्त चित्तं यस्य
(ग) सम्भ्रान्तं चित्तं यस्य सः
(घ) संभ्रान्तः चित्तः यस्य सः
(ii) ऊहापोहौ अर्थविज्ञानं तत्वज्ञानं च धीगुणाः।
(क) ऊह: च अपोह: च
(ख) ऊह अपोह च
(ग) ऊहं अपोहं च
(घ) ऊहः अपोहं च
(iii) सिंह: अनुमृगम् धावति।
(क) मृगम् अन्
(ख) मृगस्य पश्चात्
(ग) मृगस्य समीपम्
(घ) मृगं पश्चात्
(iv) को गुरु: ? अधिगतं तत्त्वं येन सः।
(क) अधिगतत्वाः
(ख) अधिगततत्त्वम्
(ग) अधिगततत्त्वः
(घ) अधिगततत्त्वानि
प्रश्न 6:
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
(i) तौ मार्गे क्रीडतः बालकान् प्रेक्ष्य अवदताम्।
(क) क्रीड् + शतृ
(ख) क्रीड् + तः
(ग) क्रीड् + शत्
(घ) क्रीड् + अन्तः
(ii) राज्ञः दानशील + तल् श्रुत्वा देशान्तरेभ्योऽपि जनाः आयान्ति।
(क) दानशीलः
(ख) दानशीलता
(ग) दानशीलतां
(घ) दानशीलम्
(iii) काकस्य पटुत्वम् प्रसिद्धम् अस्ति।
(क) पटु + क्त
(ख) पटु + ता
(ग) पटु + त्व
(घ) पटु + तव
(iv) विद्यालयं प्रति समयेन गन्तव्यम्।
(क) गम् + तव्यत्
(ख) गन्त + व्यम्
(ग) गन् + तव्य
(घ) गम् + तव्
प्रश्न 7:
अधोलिखितवाक्येषु रिक्तस्थानानि मञ्जूषायां प्रदत्त अव्ययपदैः पूरयित्वा वाक्यानि पुनर्लिखत। (1 × 4 = 4)
- …………. अहं पठामि तावत् त्वम् अपि कार्यं कुरु।
- बालः …………… रोदिति ?
- ……………… सः नगरात् आगच्छ त्।
- ……………………… मेघाः गर्जन्ति।
मञ्जूषा- ह्यः, यावत्, किमर्थम्, सम्प्रति।
प्रश्न 8:
अधोलिखितं संवादम् पूरयित्वा पुनः लिखत – (1 × 3 = 3)
प्रत्यूषः – किं विद्यालये छात्राः पादपान् सिञ्चन्ति।
राघवः – आम्, तैः पादपाः (i)…………..।
प्रत्यूषः – आचार्यः कुत्र सन्ध्यां करोति ?
राघवः – आचार्येण स्वप्रकोष्ठे (ii) ……………. क्रियते।
प्रत्यूषः – किम् उद्याने नम्रता गायति ?
राघवः – अथ किम् ! उद्याने (iii) …………. एव गीयते।
प्रश्न 9:
अधोलिखितेषु वाक्येषु अङ्काना स्थाने संस्कृतपदैः समयं लिखत – (1/2 × 4 = 2)
(i) सा (2.15) ……. गृहं प्रत्यागच्छति।
(क) सार्ध द्विवादने
(ख) सार्ध द्विवादनतः
(ग) सपाद द्विवादने
(घ) सार्ध द्विवादनम्
(ii) सा सायं (4.30) …………… उद्याने क्रीडति ।
(क) चत्वारवादने
(ख) चतुरवादने
(ग) सार्ध चत्वारवादने
(घ) सार्ध चतुर्वादने
प्रश्न 10:
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने प्रदत्तविकल्पेभ्यः शुद्धपदानि विचित्य लिखत। (1 × 4 = 4)
(i) शीतलः वारि सर्वेभ्यः रोचते।
(क) शीतलि
(ख) शीतलं
(ग) शीतला
(घ) शीतली
(ii) रमेशः गुरवे नमति
(क) गुरुवे
(ख) गुरोः
(ग) गुरुम्
(घ) गुरौ
(iii) ताः नद्याम् तरामः।
(क) तरति
(ख) तरन्ति
(ग) तरथः
(घ) तरानि
(iv) श्वः ते नाटकम् अपश्यन्।
(क) द्रक्ष्यति
(ख) द्रक्ष्यथः
(ग) द्रक्ष्यन्ति
(घ) द्रक्ष्यसि
खण्डः ‘घ’-पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि उत्तरपुस्तिकायाम् लिखत। (6)
नाहं स्वर्गं न मोक्षं वा कामये किन्तु आर्तानां परित्राणाय एव मे निश्चयः। अस्य याच्ञा वृथा मा अस्तु। इत्युक्त्वा स राजा। वैद्योक्तविधिना नीलोत्पलम् इव एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्। सः अपि तत् नेत्रं यथास्थानम्। अस्थापयत्। ततो महीपालः द्वितीयं नेत्रमपि शनैः निष्कास्य तस्मै ददौ। अथ विस्मितः शक्रः अचिन्तयत् –
अहो धृति! अहो सत्त्वम्! अहो सत्त्वहितैषिता!
नायम् चिरं परिक्लेशम् अनुभवितुम् अर्हति। अत: प्रयतिष्ये चक्षुषोऽस्य पुनः प्रत्यारोपणाय इति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कीदृशः शक्रः अचिन्तयत् ?
(ii) राजा चिरं किम् अनुभवितुम् न अर्हति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
राज्ञः किं निश्चयः?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘राजा’ पदस्य पर्यायपदम् अनुच्छेदे किम् अस्ति?
(क) महीपालः
(ख) शक्रः
(ग) धृतिः
(ii) ‘समर्पितवान्’ क्रियायाः कर्ता कः ?
(क) याचकाय
(ख) चक्षुः
(ग) राजा
(iii) शीघ्रम्’ पदस्य विलोमपदम् अत्र किम् ?
(क) शक्रः
(ख) चिरम्
(ग) वृथा
(iv) ‘अक्षतम्’ विशेषणस्य विशेष्यपदं किमत्र?
(क) उत्पाट्य
(ख) प्रीत्या
(ग) एकंचक्षुः
(आ) अधोलिखितं श्लोकं पठित्वा प्रश्नानान् उत्तरत्।
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वाष्र्णेय! बलादिव नियोजितः।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कः पापं चरति ?
(ii) अयं पूरुषः किं चरति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
अनिच्छन्नपि पूरुषः कथं पापं चरति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘वाय’ सम्बोधनं कस्य कृते प्रयुक्तम् ?
(क) अर्जुनस्य कृते
(ख) कृष्णस्य कृते
(ग) पूरुषस्य कृते
(ii) ‘चरति’ क्रियायाः कर्ता कः?
(क) पापं
(ख) पुरुषः
(ग) प्रयुक्तः
(iii) ‘पुण्यं पदस्य विलोम अत्र किम्?
(क) पापं
(ख) अयं
(ग) बलात्
(iv) ‘न इच्छन् अपि’ अस्मिन् स्थाने किं पदं श्लोके प्रयुक्तम् ?
(क) प्रयुक्तोऽयं
(ख) अनिच्छन्नपि
(ग) बलादिव
(इ) अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत। (6)
पर्यटनाधिकारी – आम्! एतत् दिवांग-उपत्यका-मण्डले स्थितं भीष्मकनगरदुर्गम्! अस्य अवशेषाः तु आर्यकला संस्कृति-सम्पदः परिचायकाः। अधुना इदं चित्रं पश्यत।
शैलेशः – अहं जानामि इदं स्थानम् ! इदं तु ‘त्वाङ्ग-गोम्पा’ इति प्रसिद्धः बौद्धमठः।
पर्यटनाधिकारी – सम्यक् अभिज्ञातम्! मनोहरे सुरम्ये ‘तवाङ्ग’ इति स्थले राजते अयं बौद्धमठः। पञ्चशतानां बौद्धभिक्षूणां निवासयोगया स्थली इयम्। लोहितजनपदे अपि अनेकबौद्धविहाराः सन्ति।
नीलिमा – मान्यवर ! मया अस्य प्रदेशस्य ‘परशुरामकुण्डम्’ इति दर्शनीयस्थलविषये अपि पठितम् !
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) ‘परशुरामकुण्डम्’ इति दर्शनीयस्थलविषये कया पठितम् ?
(ii) अनेकबौद्धविहाराः कुत्र सन्ति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
भीष्मकनगरदुर्गम् कुत्र स्थितम् ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘मया अस्य प्रदेशस्य।’ इति वाक्यांशे ‘मया’ इति सर्वनामपदं कस्याः कृते प्रयुक्तम् ?
(क) नीलिमा
(ख) नीलिमया
(ग) नीलिमायाः
(ii) प्रदेशस्य’ इति पदस्य विशेषणपदं किं?
(क) अस्य
(ख) इदम्
(ग) एतत्
(iii) ‘राजते’ इति क्रियापदस्य कर्तृपदं अत्र किम्?
(क) तवांग
(ख) बौद्धमठः
(ग) स्थली
(iv) पर्वतस्य निम्नभूभागः’ इत्यर्थे अत्र किम् पदम् प्रयुक्तम् ?
(क) उपत्यका
(ख) मण्डले
(ग) अवशेषाः
प्रश्न 12:
अधोलिखितश्लोकस्य अन्वयम् उचितपदैः पूरयत। (1/2 × 8 = 4)
(क) नलिनीदलगतजलवत्तरलं किम्? यौवनं धनं चायुः।
कथय पुनः के शशिनः किरणसमाः ? सज्जना एव।।
अन्वयः- (1) ………… गत जलवत् तरलं किम् ? यौवनं, धनम् (2) ……….. च। पुनः कथय (3) ………….. किरणसमा: के? (4) ………… एव (भवन्ति)।
(ख) षण्णाभेर्दादशाक्षस्य चतुर्विंशतिपर्वणः।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कवि।।
अन्वयः- यः षण्णाभेः (1) ……………… चतुर्विंशतिः (2) …….. (3) …………. अस्य अर्थम् वेद से परः (4)………।
मञ्जूषा- आयुः, पर्वणः सज्जनाः, कविः, नलिनीदल, त्रिषष्टिशताः, शशिनः, द्वादशाक्षस्य
प्रश्न 13:
अधोलिखितवाक्येषु रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत। (1 × 4 = 4)
(i) शुश्रुषा बुद्धेः प्रथमः गुणः।
(i) भयत्रस्ताः कपयः पश्चातापं कृतवन्तः।
(iii) बोधिसत्वः शिवीनां राजा बभूव।
(iv) चतुर्णा युगानाम् समूहः महायुगम् अस्ति।
प्रश्न 14:
रेखाङ्कितपदानां प्रसङ्गानुसारम् शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत। (1 × 4 = 4)
I. ‘लोसर’ इति प्रमुख पर्व फरवरीमासे सम्पद्यते।
(i) भविष्यति
(ii) संभाव्यते
(iii) सम्पन्नो भवति
(iv) आगच्छति
II. मोपीनपर्वणि जनाः मुखे कपोले च शालिचूर्ण लिम्पन्ति।
(i) गोधूमचूर्णं
(ii) शर्कराचूर्ण
(iii) अक्षतचूर्णम्
(iv) मृत्तिकाचूर्णम्
III. आमरणात् किम् शल्यम्।
(i) शिलाम्
(ii) बानम्
(iii) शीलम्
(iv) कन्ठकम्
IV. ‘महानसं’ प्रविश्य यत् पश्यति तद् भक्षयति।
(i) राजभवनम्
(ii) पाकशालाम्
(iii) देवालयम्
(iv) गृहम्
उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्
उत्तर 1:
I. (i) कष्ठानि
(ii) कन्यायाः
II. (i) वनदेवी आर्विभूता भूत्वा ……….. वक्तुं शक्नोति।
(ii) यदा वनदेवी आकाशं प्रति ……….. तदा गगनात् …………. अदृश्याभवत्।
III. (i) (ग) अहम्
(ii) (क) कन्यायै
(iii) (ग) वृक्षम्
(iv) (ख) श्वः
IV. जीवितं शुकं एव क्रीडनकम्।
खण्डः ‘ख’–रचनात्मक कार्यम्
उत्तर 2:
- चिरकालात्
- प्रेषयति
- व्यतीताः
- पत्रम्
- व्याकुलं
- यथाशीघ्र
- आशंकायाः
- मनसि
- अस्मिन्
- निवेदयिष्यामि
उत्तर 3:
- अस्मिन् चित्रे एका नदी अस्ति।
- नद्याम् द्वौ बालकौ तरतः।
- रजकः शिलापट्टके वस्त्राणि क्षालयति।
- नद्याः तटे एकः कुटीरः अनेके वृक्षाः च सन्ति।
- रज्जवौ वस्त्राणि शुष्यन्ति।
अथवा
‘संस्कृतभाषा’
- संस्कृतभाषा प्राचीना देवभाषा च अस्ति।
- अस्यां भाषायां सर्वे ग्रन्थाः लिखिताः सन्ति।
- इयं भाषा सर्वासां भाषाणां जननी अस्ति।
- अस्याः भाषायाः अनेके विश्वप्रसिद्धाः कवयः अभवन्।
- इयं भाषा शुद्धा एवं वैज्ञानिकी अस्ति।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- सत् + निधिम्
- पापतरः + ततः
- ह्येनम्
- जगदीशः
उत्तर 5:
(i) (ग) संभ्रान्तं चित्तं यस्य सः
(ii) (क) ऊहः च अपोहः च
(iii) (ख) मृगस्य पश्चात् ।
(iv) (ग) अधिगततत्त्वः
उत्तर 6:
(i) (ग) क्रीड् + शत्
(ii) (ग) दानशीलतां
(iii) (ग) पटु + त्व
(iv) (क) गम् + तव्यत्
उत्तर 7:
- यावत्
- किमर्थम्
- ह्यः
- सम्प्रति
उत्तर 8:
- सिञ्च्यन्ते
- संध्या
- नम्रतया
उत्तर 9:
(i) (ग) सपादद्विवादने
(ii) (घ) सार्धचतुर्वादने
उत्तर 10:
(i) (ख) शीतलम्
(ii) (ग) गुरुम्
(iii) (ख) तरन्ति
(iv) (ग) द्रक्ष्यन्ति
खण्डः ‘घ’-पठित अवबोधनम्
उत्तर 11:
(अ) I. (i) विस्मितः
(ii) परिक्लेशम्।
II. न स्वर्गस्य मोक्षस्य वा कामना ………….. एव राज्ञः निश्चयः।
III. (i) (क) महीपालः
(ii) (ग) राजा
(iii) (ख) चिरम्
(iv) (ग) एकं चक्षुः
(आ) I (i) पुरुषः
(ii) पापम्
II. अनिच्छन्नपि पुरुषः बलात् …………. चरति।
III. (i) (ख) कृष्णस्य कृते
(ii) (ख) पुरुषः
(iii) (क) पापं
(iv) (ख) अनिच्छन्नपि
(इ) I. (i) नीलिमया
(ii) लोहितजनपदे
II. भीष्मकनगरदुर्गम् ………….. मण्डले स्थितम्।
III. (i) (ख) नीलिमया
(ii) (क) अस्य
(iii) (ख) बौद्धमठः
(iv) (क) उपत्यका
उत्तर 12:
(क) (i) नलिनीदलः
(ii) आयुः
(iii) शशिनः
(iv) सज्जनाः
(ख) (i) द्वादशाक्षस्य
(ii) पर्वणः
(iii) त्रिषष्टिशताः
(iv) कविः
उत्तर 13:
- कस्याः
- कीदृशाः
- केषाम्
- किम्
उत्तर 14:
I. (ii) सम्पन्नो भवति
II. (iii) अक्षतचूर्णम्
III. (iv) कण्ठकम्
IV. (ii) पाकशालाम्
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 2 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 2, drop a comment below and we will get back to you at the earliest.